(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.186. अध्यायः 186
Mahabharata - Udyoga Parva - Chapter Topics
राममामन्त्र्य गतया अम्बया पुण्याश्रमादिषु दुष्करतपश्चरणम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

राम उवाच। 5-186-0x(3922)(38286)
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि ।
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम् ॥ 5-186-1(38287)
न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम् ।
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ॥ 5-186-2(38288)
एषा मे परमा शक्तिरेतन्मे परमं बलम् ।
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥ 5-186-3(38289)
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः ।
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥ 5-186-4(38290)
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः ।
तूष्मीमासीत्ततः कनक्या प्रोवाच भृगुनन्दनम् ॥ 5-186-5(38291)
भगवन्नेवमेवैतद्यथाऽऽह भगवांस्तथा ।
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥ 5-186-6(38292)
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया ।
अनिवार्यं रणे वीर्यमस्त्राणि विविधानि च ॥ 5-186-7(38293)
ने चैव शक्यते युद्धे विशेषयितुमन्ततः ।
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन ॥ 5-186-8(38294)
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन ।
समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥ 5-186-9(38295)
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना ।
तापस्ये धृतसंकल्पा सा मे चिन्तयती वधम् ॥ 5-186-10(38296)
ततो महेन्द्रं सहितैरमुनिभिर्भृगुसत्तमः ।
यथाऽऽगतं तथा सोऽगन्मामुपामन्त्र्य भारत ॥ 5-186-11(38297)
ततो रथं समारुह्य स्तूयमानो द्विजातिभिः ।
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ॥ 5-186-12(38298)
यथावृत्तं महाराज सा च मां प्रत्यनन्दत।
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ॥ 5-186-13(38299)
दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम् ।
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा ॥ 5-186-14(38300)
यदैव हि वनं प्रायात्सा कन्या तपसे धृता।
तदैव व्यथितो दीनो गतचेता इवाभवम् ॥ 5-186-15(38301)
न हि मां क्षत्रियः कश्चिद्वीर्येण व्यजयद्युधि ।
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥ 5-186-16(38302)
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् ।
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम् ॥ 5-186-17(38303)
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति।
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ 5-186-18(38304)
सा कन्या तु महाराज प्रविश्याश्रममण्डलम् ।
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥ 5-186-19(38305)
निराहारा कृशा रूक्षा जटिला मलपङ्किनी ।
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ॥ 5-186-20(38306)
यमुनाजलमाश्रित्य संवत्सरमथाऽपरम् ।
उदवासं निराहारा पारयामास भामिनी ॥ 5-186-21(38307)
शीर्णपर्णेन चैकेन पारयामास सा परम् ।
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥ 5-186-22(38308)
एवं द्वादश वर्षाणि तापयामास रोदसी ।
निवर्त्यमानापि च सा ज्ञातिभिर्नैव शक्यते ॥ 5-186-23(38309)
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् ।
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥ 5-186-24(38310)
तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम् ।
व्यचरत्काशिकन्या सा यथाकामविचारिणी ॥ 5-186-25(38311)
नन्दाश्रमे महाराज तथोलूकाश्रमे शुभे ।
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ॥ 5-186-26(38312)
त्रयागे देवयजने देवारण्येषु चैव ह ।
भोगवत्यां महाराज कौशिकस्याश्रमे तथा ॥ 5-186-27(38313)
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा ।
रामह्रदे च कौरव्य पैलगर्गस्य चाश्रमे ॥ 5-186-28(38314)
एतेषु तीर्थेषु तदा काशिकन्या विशांपते ।
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम् ॥ 5-186-29(38315)
तामब्रवीच्च कौरव्य मम माता जले स्थिता ।
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे ॥ 5-186-30(38316)
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता
भीष्मेण समरे रामो निर्जितश्चारुलोचनि ॥ 5-186-31(38317)
कोऽन्यस्तमुत्सहेञ्जेतुमुद्यतेषुं महीपतिः ।
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥ 5-186-32(38318)
विचरामि महीं देवि यथा हन्यामहं नृपम् ।
एतद्व्रतफलं देवि परमस्मिन्यथा हि मे ॥ 5-186-33(38319)
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि।
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले ॥ 5-186-34(38320)
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्।
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ॥ 5-186-35(38321)
नदी भविष्यसि शुभे कुटिला वार्षिकोदका।
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी ॥ 5-186-36(38322)
भीमग्राहवती घोरा सर्वभूतभयंकरी ।
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत ॥ 5-186-37(38323)
माता मम महाभागा स्मयमानेव भामिनी ।
कदाचिदष्टमे मासि कदाचिद्दशमे तथा।
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ॥ 5-186-38(38324)
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः ।
पतिता परिधावन्ती पुनः काशिपतेः सुता ॥ 5-186-39(38325)
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत ।
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ॥ 5-186-40(38326)
सा कन्या तपसा तेन देहार्धेन व्यजायत ।
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ॥ ॥ 5-186-41(38327)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि षडशीत्यधिकशततमोऽध्याय- ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-186-36 वार्षिकी वर्षास्वेव वहतीति वार्षिकी ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.